|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.18. अध्यायः 018
Mahabharata - Virata Parva - Chapter Topics
कीचकेन सुदेष्णांप्रति द्रौपद्याः स्ववशीकरणप्रार्थना ॥ 1 ॥
सुदेष्णया कीचके सुराहरणव्याजेन तद्गृहंप्रति द्रौपदीप्रेषणप्रतिज्ञानम् ॥ 2 ॥
तथा बलात्कारेण द्रौपद्याः सुरानयनाय कीचकगृहंप्रति गमनचोदना ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-18-0x(3057)(28869)
प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः।
प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः ॥ 1 ॥ 4-18-1(28870)
सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् ।
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥ 2 ॥ 4-18-2(28871)
स तु मूर्ध्र्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ ।
संमोहाभिहतस्तूर्णं वातोद्धृत इवार्णवः ॥ 3 ॥ 4-18-3(28872)
स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः ।
अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः ॥ 4 ॥ 4-18-4(28873)
यथा सुदेष्णे सैरन्ध्र्या संगच्छेयं सकामया ।
तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् ॥ 5 ॥ 4-18-5(28874)
यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते ।
चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् ॥ 6 ॥ 4-18-6(28875)
वैशम्पायन उवाच। 4-18-7x(3058)
तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम्।
भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा ॥ 7 ॥ 4-18-7(28876)
शरणागतेयं सुश्रोणी मया दत्ताभया च सा।
शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ॥ 8 ॥ 4-18-8(28877)
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा।
गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ॥ 9 ॥ 4-18-9(28878)
एवमेषा ममाचष्टे तथा प्रथमसंगमे।
तथैव गजनासोरूः सत्यमाह ममान्तिके।
ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ॥ 10 ॥ 4-18-10(28879)
राजा चैव समीक्ष्यैनां संमोहं गतवानिह ।
मया च सत्यवचनैरनुनीतो महीपतिः ॥ 11 ॥ 4-18-11(28880)
सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत।
भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम्।
मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ॥ 12 ॥ 4-18-12(28881)
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः।
दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ॥ 13 ॥ 4-18-13(28882)
सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम्।
तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ॥ 14 ॥ 4-18-14(28883)
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम्।
बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ॥ 15 ॥ 4-18-15(28884)
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव।
न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ॥ 16 ॥ 4-18-16(28885)
वैशम्पायन उवाच। 4-18-17x(3059)
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत्।
गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा ।
अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ॥ 17 ॥ 4-18-17(28886)
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् ।
पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ॥ 18 ॥ 4-18-18(28887)
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम्।
योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ॥ 19 ॥ 4-18-19(28888)
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम्।
वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता।
सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं ॥ 20 ॥ 4-18-20(28889)
वैशम्पायन उवाच। 4-18-21x(3060)
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता।
अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह ॥ 21 ॥ 4-18-21(28890)
प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा।
पातालेषु पतत्येष विलपन्बडवामुखे ॥ 22 ॥ 4-18-22(28891)
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे।
किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ॥ 23 ॥ 4-18-23(28892)
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे।
ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः ।
अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ॥ 24 ॥ 4-18-24(28893)
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः ।
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ॥ 25 ॥ 4-18-25(28894)
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः।
अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ॥ 26 ॥ 4-18-26(28895)
एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात्।
विदितार्था करिष्यामि तुष्टो भव कुलक्षये ॥ 27 ॥ 4-18-27(28896)
गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम्।
किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय ॥ 28 ॥ 4-18-28(28897)
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः ।
तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ॥ 29 ॥ 4-18-29(28898)
ततः संप्रेषितामेनां विजने निरवग्रहाम्।
सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ॥ 30 ॥ 4-18-30(28899)
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ॥ 31 ॥ 4-18-31(28900)
वैशम्पायन उवाच। 4-18-32x(3061)
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः।
त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ॥ 32 ॥ 4-18-32(28901)
आगम्य च गृहं रम्यं सुरामन्नं चकार ह।
अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ॥ 33 ॥ 4-18-33(28902)
भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा।
कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ॥ 34 ॥ 4-18-34(28903)
त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा ।
नावबुध्यत मूढात्मा मरणं समुपस्थितम् ॥ 35 ॥ 4-18-35(28904)
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते।
कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ॥ 36 ॥ 4-18-36(28905)
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः।
सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ॥ 37 ॥ 4-18-37(28906)
केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम्।
अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम्।
समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै ॥ 38 । 4-18-38(28907)
वैशम्पायन उवाच। 4-18-39x(3062)
सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम्।
एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे ॥ 39 ॥ 4-18-39(28908)
एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः ।
स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः ॥ 40 ॥ 4-18-40(28909)
कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम्।
सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत् ॥ 41 ॥ 4-18-41(28910)
गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् ।
सुरामानय सुश्रोणि तृषिताऽहं विलासिनि ॥ 42 ॥ 4-18-42(28911)
वैशम्पायन उवाच। 4-18-43x(3063)
सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा।
अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वैः ॥ 43 ॥ 4-18-43(28912)
सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते ।
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् ।
त्वमेव भद्रे जानासि यथा स निरपत्रपः ॥ 44 ॥ 4-18-44(28913)
समयश्च कृतो भद्रे यथा प्रथमसंगमे।
तथा निवसमानायां यथाऽहं नान्यचारिणी ॥ 45 ॥ 4-18-45(28914)
कीचकश्च सुकेशान्ते मूढो मदनगर्वितः ।
स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम्।
कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् ॥ 46 ॥ 4-18-46(28915)
बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः।
अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया ॥ 47 ॥ 4-18-47(28916)
कीचकस्यालयं देवि न यामि भयकम्पिता।
यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ॥ 48 ॥ 4-18-48(28917)
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी ।
तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत ॥ 49 ॥ 4-18-49(28918)
कीचकं चैव गच्छ त्वं बलात्कारे चोदिता।
नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ॥ 50 ॥ 4-18-50(28919)
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि।
शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ॥ 51 ॥ 4-18-51(28920)
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे।
उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ॥ 52 ॥ 4-18-52(28921)
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम्।
या सुजाता सुगन्धा च तामानय सुरामिति ॥ 53 ॥ 4-18-53(28922)
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा।
दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ॥ 54 ॥ 4-18-54(28923)
यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम्।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ 55 ॥ 4-18-55(28924)
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ 56 ॥ ॥ 4-18-56(28925)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥ ---------
Mahabharata - Virata Parva - Chapter Footnotes
4-18-2 अभिमन्यसे कामयसे ॥ 2 ॥ 4-18-5 मिथ्याभिगृध्नः वितथाभिनिवेशी । महद्भयं मृत्युम् ॥ 5 ॥ 4-18-20 मन्यसे लिप्ससे शिशोश्चन्द्रवदहं तव दुर्लभास्मीति भावः ॥ 20 ॥ 4-18-21 या स्वीयं अर्थयेत कामयेत शुभेच्छारूपा तव नास्तीत्यर्थः। तेन च शुभेन परदारनिवृत्तिरूपेण कामितेन संजीवनं भवतीति शेषः। अन्यथा मरिष्यसीत्यर्थः ॥ 21 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|